॥श्रीः॥
।। साङ्ख्यकारिका ।।
दुःखत्रयाभिघाताज्जिज्ञासा तदपघातके
हेतौ।
दृष्टे साऽपार्था
चेन्नैकान्तात्यन्ततोऽभावात् ॥१॥
दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥२॥
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः
सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः
पुरुषः॥३॥
दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधप्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥४॥
प्रतिविषयाध्यवसायो दृष्टं
त्रिविधमनुमानमाख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकमाप्तस्मृतिराप्तवचनं
तु ॥५॥
सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात्
।
तस्मादपि चाऽसिद्धं परोक्षमाप्तागमात्सिद्धम् ॥६॥
अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात्
।
सौक्ष्माद्व्यवधानादभिभवात्समानाभिहाराच्च
॥७॥
सौक्ष्म्यात्तदनुपलब्धिर्नाऽभावात् कार्यतस्तदुपलब्धेः।
महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च ॥८॥
असदकरणादुअपादानग्रहणात्सर्वसम्भवाभावात्
।
शक्तस्य शक्यकरणात् कारणभावाच्च
सत्कार्यम् ॥९॥
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥१०॥
त्रिगुणमविवेकि विषयः सामान्यमचेतनं
प्रसवधर्मि ।
व्यक्तं तथा प्रधानं तद्विपरीतस्तयथा च
पुमान् ॥११॥
प्रीत्यप्रीतिविषादार्मका:
प्रकाशप्रवृत्तिनियमार्थाः ।
अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥१२॥
सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं
चलं च रजः।
गुरु वरणकमेव तमः प्रदीपवच्चाऽर्थतो
वृत्तिः ॥१३॥
अविवेक्यादेः सिद्धिस्त्रैगुण्यात्तद्विपर्ययाभावात्
।
कारणगुणात्मकत्वात् कार्यस्याऽव्यक्तमपि सिद्धम्
॥१४॥
भेदानां परिमाणात् समन्वयात् शक्तितः
प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य
॥१५॥
कारणमस्त्यव्यक्तं प्रवर्तते
त्रिगुणतः समुदयाच्च ।
परिणामतः सलिलवत्
प्रतिप्रतिगुणाश्रयविशेषात् ॥१६॥
सङ्घातपरार्थत्वात्त्रिगुणादिविपर्ययादधिष्ठानात्
।
पुरुषोऽस्ति
भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च ॥१७॥
जननमरणकरणानां
प्रतिनियमादयुगपत्प्रवृत्तश्च ।
पुरुषबहुत्वं सिद्धं
त्रैगुण्यविपर्ययाच्चैव ॥१८॥
तस्माच्च
विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं
माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥१९॥
तस्मात्तत्संयोगादचेतनावदिव
लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्तेव
भवत्युदासीनः ॥२०॥
पुरुषस्य
दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि
संयोगस्तत्कृतः सर्गः ॥२१॥
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च
षोडशकः ।
तस्मादपि षोडशकात् पञ्चभ्यः
पञ्च भूतानि ॥२२॥
अध्यवसायो
बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्त्विकमेतद्रूपं
तामसमस्माद्विपर्यस्तम् ॥२३॥
अभिमानोऽहङ्कारस्तस्माद्
द्विविधः प्रवर्तते सर्गः ।
एकादशकश्च
गणस्तन्मात्रापञ्चकश्चैव ॥२४॥
सात्त्विक एकादशकः
प्रवर्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्मात्रः
स ताअमसस्तैजसादुभयम् ॥२५॥
बुद्धीन्द्रियाणि
चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि ।
वाक्पाणिपादपायूपस्थानि
कर्मेन्द्रियानण्याहुः ॥२६॥
उभयात्मकमत्र मनः
सङ्कल्पकमिन्द्रियसाधर्म्यात् ।
गुणपरिणामविशेषान्नानात्वं
बाह्यभेदाश्च ॥२७॥
शब्दादिषु
पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।
वचनादानविहरनणोत्सर्गानन्दाश्च
पञ्चानाम् ॥२८॥
स्वालक्षण्यं
वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्तिः
प्राणाद्या वायवः पञ्च ॥२९॥
युगपच्चतुष्टयस्य तु वृत्तिः
क्रमशश्च तस्य निर्दिष्टा ।
दृष्टे तथाऽप्यदृष्टे त्रयस्य
तत्पूर्विका वृत्तिः ॥३०॥
स्वां स्वां
प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।
पुरुषार्थ एव
हेतुर्न केनचित्कार्यते करणम् ॥३१॥
करणं त्रयोदशविधं
तदाहरणधारणप्रकाशकरम् ।
कार्यं च तस्य दशधाऽऽहार्यं
धार्यं प्रकाश्यं च ॥३२॥
अन्तःकरणं
त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकालं
बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥३३॥
बुद्धीन्द्रियाणि तेषाम् पञ्च
विशेषाविशेषविषयाणि ।
वाग्भवति शब्दविषया शेषाणि तु
पञ्चविषयाणि ॥३४॥
सान्तःकरणा
बुद्धिः सर्वं विषयमवगाहते यस्मात् ।
तस्मात्त्रिविधं
करणं द्वारि द्वाराणि शेषाणि ॥ ३५॥
एते प्रदीपकल्पाः
परस्परविलक्षणा गुणविशेषा: ।
कृत्स्नं पुरुषस्याऽर्थं
प्रकाश्य बुद्धौ प्रयच्छन्ति ॥३६॥
सर्वं
प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः।
सैव च विशिनष्टि
पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥३७॥
तन्मात्राण्यविशेषास्तेभ्यो
भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः शान्ता
घोराश्च मूढाश्च ॥३८॥
सूक्ष्मा
मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
सूक्ष्मास्तेषां
नियता मातापितृजा निवर्तन्ते ॥ ३९॥
पूर्वोत्पन्नमसक्तं नियतं
महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपयभोगं
भावैरधिवासितं लिङ्गम् ॥४०॥
चित्रं
यथाऽऽश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया ।
तद्वद्विना
विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥४१॥
पुरुषार्थहेतुकमिदं
निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते
लिङ्गम् ॥ ४२ ॥
सांसिद्धिकाश्च
भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।
दृष्टाः
करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥ ४३॥
धर्मेण गमनमूर्ध्वं
गमनमधस्ताद्भवत्यधर्मेण ।
ज्ञानेन चाऽपवर्गो
विपर्ययादिष्यते बन्धः ॥ ४४॥
वैराग्यात्प्रकृतिलयः
संसारो भवति राजसाद्रागात् ।
ऐश्वर्यादविघातो
विपर्ययात्तद्विपर्यासः ॥ ४५॥
एष प्रत्ययसर्गो
विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्दात्तस्य च
भेदास्तु पञ्चाशत् ॥४६॥
पञ्च विपर्ययभेदा
भवन्त्यशक्तिश्च करणवैकल्यात् ।
अष्टाविंशतिभेदा
तुष्टिर्नवधाऽष्टधा सिद्धिः ॥ ४७॥
भेदस्तमसोऽष्टविधो मोहस्य च
दशविधो महमोहः ।
तामिस्रोऽष्टादशधा तथा
भवन्त्यन्धतामिस्रः ॥४८॥
एकादशेन्द्रियवधाः
सह बुध्दिवधैरशक्तिरुद्दिष्टा ।
सप्तदश वधा
बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम् ॥४९॥
आध्यात्मिक्यश्चतस्रः
प्रकृत्युपादानकालभाग्याख्याः ।
बाह्या विषयोपरमात् पञ्च नव
तुष्टयोऽभिमताः ॥५०॥
ऊहः शब्दोऽध्ययनं
दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।
दानं च
सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१॥
न विना भावैर्लिङ्गं न विअना
लिङ्गेन भावनिर्वृत्तिः ।
लिङ्गाख्यो भावाख्यस्तस्माद्
द्विविधः प्रवर्तते सर्गः॥५२॥
अष्टविकल्पो
दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुषकश्चैकविधः
समासतो भौतिकः सर्गः ॥५३॥
उर्ध्वं
सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ।
मध्ये रजोविशालो
ब्रह्मादिस्तम्बपर्यन्तः ॥ ५४॥
तत्र जरामरणकृतं
दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्याऽविनिवृत्तेस्तस्माद्
दुःखं स्वभावेन ॥५५॥
इत्येष प्रकृतिविकृतो
महदादिविशेषभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थं
स्वार्थ इव परार्थ आरम्भः ॥५६॥
वत्सविवृद्धिनिमित्तं
क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं
तथा प्रवृत्तिः प्रधानस्य ॥५७॥
औत्सुक्यनिवृत्त्यर्थं यथा
क्रियासु प्रवर्तते लोकः।
पुरुषस्य विमोक्षार्थं
प्रवर्तते तद्वदव्यक्तम् ॥५८॥
रङ्गस्य
दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य
तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥५९॥
नानाविधैरुपायैरुपकारिण्यनुपकारिणः
पुंसः ।
गुणवत्यगुणस्य
सतस्तस्याऽर्थमपार्थकं चरति ॥६०॥
प्रकृतेः
सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टाऽस्मीति
पुनर्न दर्शनमुपैति पुरुषस्य ॥६१॥
तस्मान्न बध्यतेऽद्धा न
मुच्यते नाऽपि संसरति कश्चित्।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः॥६२॥
रूपैः सप्तभिरेव
तु बध्नात्यात्मानमात्मना प्रकृतिः।
सैव च पुरुषार्थं
प्रति विमोचयत्येकरूपेण ॥६३॥
एवं तत्त्वाभ्यासान्नाऽस्मि न
मे नाऽहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्धं
केवलमुत्पद्यते ज्ञानम् ॥ ६४॥
तेन
निवृत्तप्रसवामर्थवशात्सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुषः
प्रेक्षकवदवस्थितः स्वच्छः ॥ ६५॥
दृष्टा मयेत्युपेक्षक एको
दृष्टाऽहमित्युपरमत्यन्या ।
सति संयोगेऽपि तयोः प्रयोजनं
नाऽस्ति सर्गस्य ॥६६॥
सम्यग्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ
।
तिष्ठति
संस्कारवशाच्चक्रभ्रमिवद् धृतशरीरः ॥६७॥
प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ
।
ऐकान्तिकमात्यन्तिकमुभयं
कैवल्यमाप्नोति ॥६८॥
पुरुषार्थज्ञानमिदं
गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते
यत्र भूतानाम् ॥ ६९॥
एतत्पवित्रमग्र्यं
मुनिरासुरयेऽनुकम्पया प्रददौ ।
आसुरुरपि पञ्चशिखाय तेन बहुधा
कृतं तन्त्रम् ॥७०॥
शिष्यपरम्परयाऽऽगतमीश्वरकृष्णेन
चैतदार्याभिः।
सङ्क्षिप्तमार्यमतिना
सम्यग्विज्ञाय सिद्धान्तम् ॥७१॥
सप्तत्यां किल
येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिताः
परवादविवर्जिताश्चाऽपि ॥७२॥
॥
इतीश्वरकृष्णविरचितसाङ्ख्यकारिका समाप्ता ॥
No comments:
Post a Comment